Nrisimhashatchakra Upanishad 5 страница

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥१३॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवांस्तम्भयति स सर्वान्ग्रहांस्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥१४॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति स नागानाकर्षयति स ग्रहानाकर्षयति स मनुष्यानाकर्षयति स सर्वानाकर्षयति स सर्वानाकर्षयति ॥१५॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं जयति स तपोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति ॥१६॥

य एतं मन्त्रराजमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ॥१७॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥१८॥

अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेनाथर्वशिरः शिखाध्यापकेन तत्सममथर्वशिरः शिखाध्यापकशतमेकमेकेन तापनीयोपनिषदध्यापकेन तत्समं तापनीयोपनिषदध्यापकशतमेकमेकेन मन्त्रराजध्यापकेन तत्समम् ॥१९॥

तद्वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः ॥२०॥

तदेतदृचाभ्युक्तम् तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति य एवं वेदेति महोपनिषत् ॥२१॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति नृसिंहपूर्वतापिन्युपनिषत्समाप्ता ॥

 

नृसिंहतापनी उपनिषद्-2

नृसिंहोत्तरतापिन्यां तुर्यतुर्यात्मकं महः ।
परमाद्वैतसाम्राज्यं प्रत्यक्षमुपलभ्यते॥

ॐ देवा ह वै प्रजापतिमब्रुवन्नणोरणीयां-
समिममात्मानमोङ्कारं नो व्याचक्ष्वेति
तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
ह्येतद्ब्रह्मायमात्मा ब्रह्म तमेतमात्मानमोमिति
ब्रह्मणैकीकृत्य ब्रह्म चात्मानमोमित्येकीकृत्य
तदेकमजरममृतमभयमोमित्यनुभूय
तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि
तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं
त्रिशरीरं परं ब्रह्मानुसन्दध्यात्स्थूलत्वात्-
स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वा-
च्चैक्यादानन्दभोगाच्च सोऽयमात्मा
चतुष्पाज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुक् चतुरात्मा विश्वो
वैश्वानरः प्रथमः पादः॥

स्वप्नस्थानः सूक्ष्मप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः सूक्ष्मभुक् चतुरात्मा
तैजसो हिरण्यगर्भो द्वितीयः पादः॥

यत्र सुप्तो न कञ्चन कामं कामयते न
कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक् चेतोमुखश्चतुरात्मा
प्राज्ञ ईश्वरस्तृतीयः पादः॥

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानं
त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं
चिदेकरसो ह्ययमात्माथ तुरीयश्चतुरात्मा
तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पै-
स्त्रयमप्यत्रापिसुषुप्तं स्वप्नं मायामात्रं
चिदेकरसो ह्ययमात्माथायमादेशो न
स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघन-
मदृष्टमव्यवहार्यमग्राह्यमलक्षण-
मचिन्त्यमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं
प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं
मन्यन्ते स आत्मा स विज्ञेय ईश्वरग्रासस्तुरीयस्तुरीयः॥

इति प्रथमः खण्डः ॥१॥

तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं
स्वप्ने जाग्रतमसुषुप्तं सुषुप्ते जाग्रतमस्वप्नं
तुरीये जाग्रतमस्वप्नमसुषुप्तव्यभिचारिणं
नित्यानन्दं सदेकरसं ह्येव चक्षुषो द्रष्टा
श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा
बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा
सर्वस्य द्रष्टा ततः सर्वस्मादन्यो विलक्षणचक्षुषः
साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षीः
बुद्धेः साक्षी प्राणस्य साक्षी तमसः साक्षी
सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मात्प्रियतम
आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः
सुविभातमेकरसमेवाजरममृतमभयं
ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरोङ्कारेण
चैकीकुर्याज्जागरितस्थानश्चतुरात्मा विश्वो
वैश्वानरश्चतूरूपोङ्कार एव चतूरूपो
ह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपै-
राप्तेरादिमत्त्वाद्वा स्थूलत्वात्सूक्ष्मत्वाद्-
बीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च
भवति य एवं वेद॥
























































Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: